अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति। अश्वायन्तो मघवन्। मा त्वा वृका अघायवो विदन्। एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य
७।४।३५ इति दीर्घरतिषेधो भवति इति।
"एतदेवाद्ववचनं ज्ञापकम्()" इत्यादि।
कथं कृत्वा ज्ञापकम्()? यदि "न च्छन्दसि"
७।४।३५ इत्यनन्तरस्यैवेत्वस्यायं प्रतिषेधः तदाऽद्वचनमनर्थकं स्यात्(), "अकृत्सार्वधातुकयोः"
७।४।२५ इत्यनेनैव सिद्धत्वात्(), कृतञ्च, तस्मादेतज्ज्ञापयति--दीर्घस्याप्ययं प्रतिषेधो भवतीति॥